पार्श्वः

सुधाव्याख्या

पेति । स्पृश्यते । ‘स्पृश स्पर्शने’ (तु० प० अ०) । ‘स्पृशेः श्वण्शुनौ पृ च’ (उ० ५.२७) । णित्वाद्वृद्धिः (७.२.११५) । यद्वा पर्शूनां समूहः । ‘पर्श्वा णस् वक्तव्यः’ (वा० ४.२.४३) । सित्त्वात् (१.४.१६) पदत्वेन भत्वाभावाद् ‘ओर्गुणः’ (६.४.१४६) इति न । ‘पार्श्वमन्तिके । कक्षाधोऽवयवे चक्रोपान्ते पर्शुगणेऽपि च’ (इति हैमः) ॥