मध्यमः

सुधाव्याख्या

मेति । मध्ये भवम् । ‘मध्यान्मः’ (४.३.८) । ‘मध्यमो मध्यजेऽन्यवत् । पुमान्स्वरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् । स्त्रियां दृष्टरजोनार्यां कर्णिकाङ्गुलिभेदयोः । त्र्यक्षरच्छन्दसि तथा’ (इति मेदिनी) ॥