मध्यः

सुधाव्याख्या

मध्ये शरीरस्य भवम् । ‘अ साम्प्रतिके’ (४.३.९) इत्यः । यद्वा मां शोभां धत्ते । ‘अघ्न्यादयश्च’ (उ० ४.११२) इति साधुः । ‘मध्यं विलग्ने न स्त्री स्यान्याय्येऽन्तरेऽधमे त्रिषु’ (इति मेदिनी) ॥ (‘मध्योऽवलग्नं विलग्नं मध्यमः’ इति नाममाला) ।