अवलग्नः

सुधाव्याख्या

लग्यते स्म । ‘लगे सङ्गे’ (भ्वा० प० से०) । ‘क्षुब्धस्वान्त-’ (७.२.१८) इति साधुः । यद्वा । लज्जते स्म । ‘ओलस्जी व्रीडे’ (तु० अ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘स्कोः-’ (८.२.२९) इति सलोपः । ‘ओदितश्च’ (८.२.४५) इति नत्वम् । ‘श्वीदितः’ (७.२.१४) इति नेट् । अवकृष्टम्, अवसन्नम्, वा लग्नम् । ‘प्रादयो गता-’ (वा० २.२.१८) इति समासः । ‘अवलग्नोऽस्त्रियां मध्ये त्रिषु स्याल्लग्नमात्रके’ (इति मेदिनी) ॥