अमरकोशः


श्लोकः

गूथं पुरीषं वर्चस्कमस्त्री विष्ठाविशौ स्त्रियौ । स्यात्कर्पर: कपालोऽस्त्री कीकसं कुल्यमस्थि च ॥ ६८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गूथ गूथम् नपुंसकलिङ्गः गूयते । थक् उणादिः अकारान्तः
2 पुरीष पुरीषम् नपुंसकलिङ्गः पिपर्ति शरीरम् । ईषन् उणादिः अकारान्तः
3 वर्चस्क वर्चस्कः पुंलिङ्गः, नपुंसकलिङ्गः वर्चते, वर्च्यते वा । असुन् उणादिः अकारान्तः
4 विष्ठा विष्ठा स्त्रीलिङ्गः वितिष्ठते उदरे । कृत् आकारान्तः
5 विष् विष् स्त्रीलिङ्गः वेवेष्टि । क्विप् कृत् षकारान्तः
6 कर्पर कर्परः पुंलिङ्गः कल्पते । अर बाहुलकात् अकारान्तः
7 कपाल कपालः पुंलिङ्गः, नपुंसकलिङ्गः कं पालयति । अण् कृत् अकारान्तः
8 कीकस कीकसम् नपुंसकलिङ्गः ‘कि’ इति कसति । अच् कृत् अकारान्तः
9 कुल्य कुल्यम् नपुंसकलिङ्गः कुले भवम् यत् तद्धितः अकारान्तः
10 अस्थि अस्थिम् नपुंसकलिङ्गः अस्यते । क्थिन् उणादिः इकारान्तः