विष्ठा

सुधाव्याख्या

वितिष्ठते उदरे । अनया वा पुरुषः । ‘आतश्चोपसर्गे’ (३.१.१३६) इति कः । अङ् (३.३.१०६) वा । ‘उपसर्गात्-’ (८.३.६५) इति षत्वम् ॥