पुरीषम्

सुधाव्याख्या

पिपर्ति शरीरम् । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । ‘कॄतॄभ्यामीषन्’ (उ० ४.२६) । ‘शॄपॄभ्यां किच्च’ (उ० ४.२७) इतीषन् किच्च । ‘उदोष्ठ्यपूर्वस्य’ (७.१.१०२) ॥