कुल्यम्

सुधाव्याख्या

‘सजातीयगणे गोत्रे देहेऽपि कथितं कुलम्’ इति विश्वः । कुले भवम् । साधु वा । दिगादित्वात् (४.३.५४) यत् । ‘तत्र साधुः’ (४.४.९८) इति वा । कोलति, कुल्यते वा ‘कुल संस्त्याने’ (भ्वा० प० से०) । अघ्न्यादिः (उ० ४.११२) । ‘कुल्यः कुलोद्भवे मान्ये कुलस्यातिहितेऽपि च । कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च । पयःप्रणालीसरितोः कुल्या जीवन्तिकौषधौ’ इति विश्वः ॥