कपालः

सुधाव्याख्या

कं पालयति । 'कर्मण्यण्’ (३.२.१) । कम्पते । ‘कपि चलने’ (भ्वा० आ० से०) । ‘तमि- विशि-’ (उ० १.११८) इति कालन् । ‘कपि’ इति निर्देशान्नलोपः । आगमशास्त्रस्यानित्यत्वं वा । ‘कपालोऽस्त्री शिरोऽस्थ्नि स्यात् घटादेः शकले व्रजे’ (इति मेदिनी) ॥