अमरकोशः


श्लोकः

भार्या जायाथ पुंभूम्नि दारा: स्यात्तु कुटुम्बिनी । पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता ॥ ६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भार्या भार्या स्त्रीलिङ्गः भ्रियते । ण्यत् कृत् आकारान्तः
2 जाया जाया स्त्रीलिङ्गः जायतेऽस्याम् । यक् उणादिः आकारान्तः
3 दार दारः पुंलिङ्गः दारयन्ति भ्रातॄन् । घञ् कृत् अकारान्तः
4 कुटुम्बिनी कुटुम्बिनी स्त्रीलिङ्गः कुटुम्बमस्त्यास्याः । इनि तद्धितः ईकारान्तः
5 पुरंध्री पुरंध्री स्त्रीलिङ्गः पुरं धारयति । खच् कृत् ईकारान्तः
6 सुचरित्रा सुचरित्रा स्त्रीलिङ्गः शोभनं चरित्रमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
7 सती सती स्त्रीलिङ्गः अस्ति एकस्मिन् पत्यौ । शतृ कृत् ईकारान्तः
8 साध्वी साध्वी स्त्रीलिङ्गः साध्नोति परकार्यं परलोकं वा । उण् उणादिः ईकारान्तः
9 पतिव्रता पतिव्रता स्त्रीलिङ्गः पत्यौ व्रतं नियमोऽस्याः । बहुव्रीहिः समासः आकारान्तः