पुरंध्री

सुधाव्याख्या

‘पुरं नपुंसकं गेहे’ (इति मेदिनी) । पुरं धारयति । ‘धृञ् धारणे’ (भ्वा० उ० अ०) । स्वार्थण्यन्तः । ‘संज्ञायां भृतॄवृ-’ (३.२.४६) इति खच् । ‘खचि ह्रस्वः’ (६.४.९४) । गौरादिः (४.१.४१) । पृषोदरादिः (६.३.१०९) – हलन्तात् ‘इगुपधात् किः’ - इति मुकुटः । तन्न । धरतेर्हलन्तत्वेगुपधत्वयोरभावात् ॥


प्रक्रिया

धातुः -


धृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
धृ + णिच् - हेतुमति च 3.1.26
धृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
धार् + इ - अचो ञ्णिति 7.2.115
पुर + अम् + धार् + इ + खच् - संज्ञायां भृतॄवृजिधारिसहितपिदमः 3.2.46, उपपदमतिङ् 2.2.19
पुर + धार् + इ + खच् - सुपो धातुप्रातिपदिकयोः 2.4.71
पुर + धार् + खच् - णेरनिटि 6.4.51
पुर + धार् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पुर + धर - खचि ह्रस्वः 6.4.94
पुर + मुम् + धर - अरुर्द्विषदजन्तस्य मुम् 6.3.67
पुर + म् + धर - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुरंधर - नश्चापदान्तस्य झलि 8.3.24
पुरन्धर - अनुस्वारस्य ययि परसवर्णः 8.4.58
परन्धर + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
पुरन्धर + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
पुरन्धर् + ई - यस्येति च 6.4.148
पुरन्ध्री - पृषोदरादीनि यथोपदिष्टम् 6.3.109
पुरन्ध्री + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पुरन्ध्री + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पुरन्ध्री - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68