भार्या

सुधाव्याख्या

भ्रियते । भूर्यते वा । ‘डुभृञ् धारणपोषणयोः’ (जु० प० अ०) । ‘भॄ भरणादौ’ (क्र्या० प० से०) वा । ण्यत् (३.१.१२४) । यत्तु-संज्ञायां भृञः (भ्वा० उ० अ०) । ‘ऋहलोर्ण्यत्’ (३.१.१२४) -इति स्वामी व्याख्यत् । तन्न । ‘संज्ञायां समजनिषद-’ (३.३.९९) इति क्यपा भाव्यं परत्वात् । संज्ञा- पर्युदासः (३.१.११२) तु पुंलिङ्गे सावकाशः । ‘तदनुबन्धकग्रहणे नातदनुबन्धकस्य’ (प० ४.२.९) इति न्यायाद्भृञ एव क्यप् । न डुभृञः ॥