सती

सुधाव्याख्या

अस्ति एकस्मिन् पत्यौ । ‘अस भुवि’ (अ० प० से०) । शतृ (३.२.१२४) ‘श्नसोरल्लोपः’ (६.४.१११) । ‘उगितश्च’ (४.१.६) इति ङीप् । ‘सन् साधौ धीरशस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युमयोः स्त्रियाम्’ (इति मेदिनी) ॥