दारः

सुधाव्याख्या

दारयन्ति भ्रातॄन् । ‘दॄ विदारणे’ (क्र्या० प० से०) । णिजन्तः । ‘दारजारौ कर्तरि णिलुक् च’ (वा० ३.३.२०) इति घञ् । यद्यपि दारयतेः पचाद्यचा (३.१.१३४) सिद्धम् । स्वरश्च समः । 'कर्षात्वतः-’ (६.१.१५९) इति घञ्ञ्यन्तोदात्तत्वात् । तथापि ‘अच्कावशक्तौ’ (६.२.१५७) इति स्वरबाधनार्थमिदम् । टाबन्तोऽपि । ‘क्रोडा हारा तथा दारा त्रय एते यथाक्रमम् । ‘क्रोडे हारे च दारेषु शब्दाः प्रोक्ता मनीषिभिः’ इति व्याडिशुभाङ्कौ ॥