अमरकोशः


श्लोकः

किलाससिध्मे कच्छ्वां तु पाम पामा विचर्चिका । कण्डू: खर्जूश्च कण्डूया विस्फोट: पिटकस्त्रिषु ॥ ५३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 किलास किलासम् नपुंसकलिङ्गः किलं च तदसं च । तत्पुरुषः समासः अकारान्तः
2 सिध्म सिध्मम् नपुंसकलिङ्गः सिध्यति । मक् बाहुलकात् अकारान्तः
3 कच्छु कच्छूः नपुंसकलिङ्गः कषति । उणादिः उकारान्तः
4 पामन् पामन्म् नपुंसकलिङ्गः पायत्यङ्गम् । मनिन् उणादिः नकारान्तः
5 पामा पामा स्त्रीलिङ्गः पायत्यङ्गम् । डाप् स्त्रीप्रत्ययः आकारान्तः
6 विचर्चिका विचर्चिका स्त्रीलिङ्गः विचर्च्यते । ण्वुल् कृत् आकारान्तः
7 कण्डू कण्डू स्त्रीलिङ्गः कण्डूयनम् । यक् कृत् ऊकारान्तः
8 कर्जू कर्जू स्त्रीलिङ्गः खर्जनम् । उणादिः ऊकारान्तः
9 कण्डूया कण्डूया स्त्रीलिङ्गः कृत् आकारान्तः
10 विस्फोट विस्फोटः पुंलिङ्गः विस्फोटति । अच् कृत् अकारान्तः
11 पिटक पिटकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पेटति । क्वुन् उणादिः अकारान्तः