पिटकः

सुधाव्याख्या

पेटति । ‘पिट शब्दसंघातयोः’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) । ‘पिटकः स्यात्तु विस्फोटे मञ्जूषायामपीष्यते’ इति हेमचन्द्रः । स्त्रियां पिटका । क्षिपकादिः (वा० ७.३.४५) । ‘विस्फोटा विटिका स्त्रियाम्’ इत्यमरमालायां वकारादिरपि ॥