कण्डू

सुधाव्याख्या

केति । कण्डूयनम् । ‘कण्डूञ् गात्रविघर्षणे’ (कण्ड्वादिः) । ‘कण्ड्वादिभ्यो यक्’ (३.१.२७) । सम्पदादि क्विप् (वा० ३.३.१०८) ॥


प्रक्रिया

धातुः -


कण्डूञ् गात्रविघर्षणे
कण्डू - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कण्डू + यक् - कण्ड्वादिभ्यो यक् 3.1.27
कण्डू + य् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कण्डू + य् + क्विप् - संपदादिभ्यः क्विप् (3.3.108) । वार्तिकम् ।
कण्डू + क्विप् - लोपो व्योर्वलि 6.1.66
कण्डू + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कण्डू - वेरपृक्तस्य 6.1.67
कण्डू + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कण्डू + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कण्डू + रु - ससजुषो रुः 8.2.66
कण्डू + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कण्डूः - खरवसानयोर्विसर्जनीयः 8.3.15