सिध्मम्

सुधाव्याख्या

सिध्यति ‘षिधु गत्याम्’ ‘(संराद्धौ)’ (दि० प० अ०) । बाहुलकान्मक् । यत्तु-पामादित्वान्मनिन्-इति मुकुटः । तन्न । पामादेर्मनिन्विधानाभावात् । धातोः पामादिप्रत्ययाभावात् ॥ ‘पादस्फोटोऽथ त्वक्पुष्पी किलासं सिध्मलीति च’ इति रभसः ।