किलासम्

सुधाव्याख्या

कीति । किलति । ‘किल श्वैत्यक्रीडनयोः’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । अस्यति । ‘असु क्षेपणे' (दि० प० से०) । अच् (३.१.१३४) । किलं च तदसं च । यद्वा केलनम् । भिदाद्यङ् (३.३.१०४) । किलमस्यति । अण् (३.२.१) । किलेन श्वैत्येन असति वा । ‘अस दीप्तौ’ (भ्वा० उ० से०) । अच् (३.१.१३४) ॥