अमरकोशः


श्लोकः

जनयित्री प्रसूर्माता जननी भगिनी स्वसा । ननन्दा तु स्वसा पत्युर्नप्त्री पौत्री सुतात्मजा ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 जनयित्री जनयित्री स्त्रीलिङ्गः जनयति । तृच् कृत् ईकारान्तः
2 प्रसू प्रसूः स्त्रीलिङ्गः प्रसूयते । क्विप् कृत् ऊकारान्तः
3 मातृ माता स्त्रीलिङ्गः मान्यते । तृच् उणादिः ऋकारान्तः
4 जननी जननी स्त्रीलिङ्गः जनयति । ल्युट् कृत् ईकारान्तः
5 भगिनी भगिनी स्त्रीलिङ्गः भगं कल्याणं यत्नो वा इच्छा वास्त्यस्याः । इनि तद्धितः ईकारान्तः
6 स्वसृ स्वसा स्त्रीलिङ्गः सुष्ठु अस्यति, अस्यते वा । ऋन् उणादिः ऋकारान्तः
7 ननान्दृ ननान्दा स्त्रीलिङ्गः न नन्दति-न तुष्यति । ऋन् उणादिः ऋकारान्तः
8 नप्त्री नप्त्री स्त्रीलिङ्गः न पतन्ति पितरोऽनेन । तृन् उणादिः ईकारान्तः
9 पौत्री पौत्री स्त्रीलिङ्गः पुत्रस्य पुत्र्याश्चापत्यम् । अञ् तद्धितः ईकारान्तः
10 सुतात्मजा सुतात्मजा स्त्रीलिङ्गः सुतस्य सुतायाश्चात्मजा ॥ तत्पुरुषः समासः आकारान्तः