ननान्दा

सुधाव्याख्या

ननेति । न नन्दति - न तुष्यति । ‘न नन्दयति भ्रातृजायाम्’ इति वा । ‘नञि च नन्देः’ (उ० २.९८) इति ऋन् । केचित् पूर्वसूत्रात् (२.९७) वृद्धिग्रहणमनुवर्तयन्ति । ‘ननन्दा तु स्वसा पत्युर्ननान्दा नन्दिनी च सा’ इति रभसः । -‘नञि च नन्देर्दीर्घश्च—इति मुकुटः । तन्न । उज्ज्वलदतादावभावात् ॥