जननी

सुधाव्याख्या

जनयति । ‘कृत्यल्युटः-’ (३.३.११३) इति ल्युट् ॥


प्रक्रिया

धातुः -


जनीँ प्रादुर्भावे
जन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जन् + णिच् - हेतुमति च 3.1.26
जन् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9, जनिवध्योश्च 7.3.35
जन् + इ + ल्युट् - कृत्यल्युटो बहुलम् 3.3.113
जन् + इ + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8,तस्य लोपः 1.3.9](https://ashtadhyayi.com/sutraani/1/3/9)
जन् + इ + अन - युवोरनाकौ 7.1.1
जन् + अन - णेरनिटि 6.4.51
जनन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
जनन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
जनन् + ई - यस्येति च 6.4.148
जननी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
जननी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जननी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68