नप्त्री

सुधाव्याख्या

नप्त्रीति । न पतन्ति पितरोऽनेन । ‘नप्तृनेष्टृ-’ (उ० २.९५) इति साधुः । ‘ऋन्नेभ्यो ङीप्’ (४.१.५) । ‘नप्ता, नप्त्री च पौत्रिका’ इति रभसः ॥


प्रक्रिया

धातुः -


नञ् + पत्लृँ + तृन् - नप्तृनेष्टृत्वष्टृहोतृपोतृभ्रातृजामातृमातृपितृदुहितृ (२.९५) । उणादिसूत्रम् ।
न + पत् + तृ - उपदेशेऽजनुनासिक इत् 1.3.2, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
न + प् + तृ - निपातनात् ।
नप्तृ + ङीप् - ऋन्नेभ्यो ङीप्‌ 4.1.5
नप्तृ + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
नप्त्र् + ई - इको यणचि 6.1.77
नप्त्री + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नप्त्री + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नप्त्री - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68