माता

सुधाव्याख्या

मान्यते । ‘मान पूजायाम्’ (भ्वा० आ० से०) । माति वा । माति गर्भाऽस्यां वा । ‘मा माने’ (अ० प० अ०) । ‘नप्तृनेष्टृ-’ (उ० २.९५) इति साधुः । ‘माता गौर्दुर्गा जननी मही । मातरश्च ब्रह्मण्याद्याः इति हैमः ॥