अमरकोशः


श्लोकः

समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः । प्रसाधनी कङ्कतिका पिष्टातः पटवासकः । दर्पणे मकुरादर्शौ व्यजनं तालवृन्तकम् ॥ १३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 समुद्गक समुद्गकः पुंलिङ्गः समुद् गच्छति । कृत् अकारान्तः
2 संपुटक संपुटकः पुंलिङ्गः सम्पुट्यते । क्वुन् उणादिः अकारान्तः
3 प्रतिग्राह प्रतिग्राहः पुंलिङ्गः प्रति गृह्णाति । कृत् अकारान्तः
4 पतद्ग्रह पतद्ग्रहः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
5 प्रसाधनी प्रसाधनी स्त्रीलिङ्गः प्रसाध्यतेऽनया । ल्युट् कृत् ईकारान्तः
6 कङकतिका कङकतिका स्त्रीलिङ्गः कङ्कते । अतच् बाहुलकात् आकारान्तः
7 पिष्टात पिष्टातः पुंलिङ्गः पिष्टमतति । अण् कृत् अकारान्तः
8 पटवासक पटवासकः पुंलिङ्गः पटो वास्यतेऽनेन । कृत् अकारान्तः