कङकतिका

सुधाव्याख्या

कङ्कते । ‘ककि गतौ’ (भ्वा० आ० से०) । बाहुलकादतच् । गौरादिः (४.१.४१) । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘केऽणः (७.४.१३) इति ह्रस्वः । यद्वा कस्य शिरसोऽङ्काः । शकन्ध्वादिः (वा० ६.१.९४) । कङ्केष्वतति । क्वुन् (उ० २.३२) । कङ्कति । ‘ककि लौल्ये’ - इति मुकुटः । तन्न । तस्यानिदित्त्वात् । आत्मनेपदित्वाच्च । ‘कङ्कती तु प्रसाधनी’ इति स्त्रीकाण्डेऽमरमाला । ‘कङ्कतं तु प्रसाधनम्’ इति क्लीबकाण्डे च ॥


प्रक्रिया

धातुः -


ककिँ गतौ
कक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कन्क् - इदितो नुम् धातोः 7.1.58
कंक् - नश्चापदान्तस्य झलि 8.3.24
कङ्क् - अनुस्वारस्य ययि परसवर्णः 8.4.58
कङ्क् + अतच् - बाहुलकात् ।
कङ्क् + अत - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कङ्कत + ङीप् - षिद्गौरादिभ्यश्च 4.1.41
कङ्कत + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कङ्कत् + ई - यस्येति च 6.4.148
कङ्कती + कन् - न सामिवचने 5.4.5, इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति ।
कङ्कती + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कङ्कतिक - केऽणः 7.4.13
कङ्कतिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कङ्कतिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कङ्कतिका - अकः सवर्णे दीर्घः 6.1.101
कङ्कतिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कङ्कतिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कङ्कतिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68