प्रतिग्राहः

सुधाव्याख्या

प्रेति । प्रति गृह्णाति । ‘विभाषा ग्रहः’ (३.१.१४३) इति णः ॥ पक्षेऽच् (३.१.१३४) । ‘प्रतिग्रहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे । योग्येभ्यो विधिवद्देये तद्गृहे च ग्रहान्तरे’ इति मेदिनी ॥