पटवासकः

सुधाव्याख्या

पटो वास्यतेऽनेन । ‘वास उपसेवायाम्’ चुरादिः । घः (३.३.११८) । स्वार्थे कन् (ज्ञापि० ५.४.५) । पटं वासयति । ‘कर्मण्यण्’ (३.२.१) वा । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥