प्रसाधनी

सुधाव्याख्या

प्रसेति । प्रसाध्यतेऽनया । ‘साध संसिद्धौ’ (भ्वा० प० अ०) । ल्युट् (३.३.११७) । ‘प्रसाधनी तु कङ्कत्यां सिद्धौ, वेशे प्रसाधनम्’ इति विश्वमेदिन्यौ ॥


प्रक्रिया

धातुः -


साधँ संसिद्धौ
साध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + साध् + ल्युट् - करणाधिकरणयोश्च 3.3.117
प्र + साध् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्र + साध् + अन - युवोरनाकौ 7.1.1
प्रसाधन + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
प्रसाधन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्रसाधन् + ई - यस्येति च 6.4.148
प्रसाधनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रसाधनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रसाधनी - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2