अमरकोशः


श्लोकः

श्रीवासो वृकधूपोऽपि श्रीवेष्टसरलद्रवौ । मृगनाभिर्मुगमदः कस्तूरी चाथ कोलकम् ॥ १२९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्रीवास श्रीवासः पुंलिङ्गः श्रियोः वासः । तत्पुरुषः समासः अकारान्तः
2 वृकधूप वृकधूपः पुंलिङ्गः वृकनामा धूपः । तत्पुरुषः समासः अकारान्तः
3 श्रीवेष्ट श्रीवेष्टः पुंलिङ्गः श्रियः सरलद्रवस्य पिष्टः । तत्पुरुषः समासः अकारान्तः
4 सरलद्रव सरलद्रवः पुंलिङ्गः सरलस्य देवदारोर्द्रवः ॥ तत्पुरुषः समासः अकारान्तः
5 मृगनाभि मृगनाभिः पुंलिङ्गः मृगस्य नाभिः ॥ तत्पुरुषः समासः इकारान्तः
6 मृगमद मृगमदः पुंलिङ्गः मृगस्य मदः ॥ तत्पुरुषः समासः अकारान्तः
7 कस्तूरी कस्तूरी स्त्रीलिङ्गः कसति गन्धोऽस्याः । ऊर उणादिः ईकारान्तः
8 कोलक कोलकम् नपुंसकलिङ्गः कोलति । ण्वुल् कृत् अकारान्तः