वृकधूपः

सुधाव्याख्या

‘वृकः स्यात् कृत्रिमेऽनेकधूपेऽपि सरलद्रवे’ इति रभसः । धूप्यतेऽनेन । ‘धूप संतापे’ (भ्वा० प० से०) । घञ् (३.३.१८) । वृकनामा धूपः । शाकपार्थिवादिः (वा० २.१.७८) ॥