कस्तूरी

सुधाव्याख्या

कसति गन्धोऽस्याः । ‘कस गतौ’ (भ्वा० प० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः । पृषोदरादिः (६.३.१०९) ॥ ‘मृगनाभिर्मृगमदो मृगः कस्तूरिकापि च’ इति माधवात् ‘मृगः’ अपि । ‘मदः’ अपि । ‘मदो रेतसि कस्तूयम्’ इति मेदिनी । ‘मुख्यराट्क्षत्त्रिये नाभिः पुंसि, प्राण्यङ्गके द्वयोः । चक्रमध्ये प्रधाने च स्त्रियां कस्तूरिकामदे’ इति रभसात् ‘नाभिः’ अपि ।