कोलकम्

सुधाव्याख्या

अथेति । कोलति । ‘कुल संस्त्याने’ (भ्वा० प० से०) । ण्वुल् (३.१.१३३) । रलयोरेकत्वात् ‘कोरकम्’ अपि । ‘कोरकोऽस्त्री कुड्मले स्यात्कक्कोलकमृणालयोः’ (इति मेदिनी) ॥