अमरकोशः


श्लोकः

प्रैवेयकं कण्ठभूषा लम्बनं स्याल्ललन्तिका । स्वर्णैः प्रालम्बिकाऽथोर:सूत्रिका मौक्तिकैः कृता ॥ १०४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ग्रैवेयक ग्रैवेयकम् नपुंसकलिङ्गः ग्रीवायां भवम् । ढकञ् तद्धितः अकारान्तः
2 कण्ठभूषा कण्ठभूषा स्त्रीलिङ्गः कण्ठस्य भूषा ॥ तत्पुरुषः समासः आकारान्तः
3 लम्बन लम्बनम् नपुंसकलिङ्गः लम्बते । ल्यु कृत् अकारान्तः
4 ललन्तिका ललन्तिका स्त्रीलिङ्गः ललन्त्येव । शतृ कृत् आकारान्तः
5 प्रालम्बिक प्रालम्बिकः स्त्रीलिङ्गः सैव ललन्तिका सुवर्णैः कृता प्रालम्बते । ण्वुल् कृत् अकारान्तः
6 उरःसूत्रिका उरःसूत्रिका स्त्रीलिङ्गः उरसः सूत्रमिव । तत्पुरुषः समासः आकारान्तः