ग्रैवेयकम्

सुधाव्याख्या

ग्रैवेयेति । ग्रीवायां भवम् । ‘कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु (४.२.९६) इति ढकञ् । ‘ग्रीवाया अण् च’ (४.३.५७) इति ढञि ‘ग्रैवेयम्’ अपि इति मुकुटः ॥