ललन्तिका

सुधाव्याख्या

लडति । ‘लड विलासे’ (भ्वा० प० से०) । ‘लटः शतृ-’ (३.२.१२४) ‘उगितश्च' (४.१.६) इति ङीप् । ‘शप्श्यनोर्नित्यम्’ (७.१.८१) इति नुम् । डलयोरेकत्वम् । ललन्त्येव । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


लडँ विलासे
लड् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लड् + शतृ - लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124
लड् + अत् - उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
लड् + अत् + ङीप् - उगितश्च 4.1.6
लडत् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
लड नुम् त् + ई - शप्श्यनोर्नित्यम् 7.1.81
लड न् त् + ई - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ललन्ती - डलयोरेकत्वम् ।
ललन्ती + कन् - न सामिवचने 5.4.5
ललन्ती + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
ललन्तिक - केऽणः 7.4.13
ललन्तिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
ललन्तिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
ललन्तिका - अकः सवर्णे दीर्घः 6.1.101
ललन्तिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ललन्तिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ललन्तिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68