उरःसूत्रिका

सुधाव्याख्या

अथेति । सैव ललन्तिका मुक्ताभिः कृताः । उरसः सूत्रमिव । ‘इवे-’ (५.३.९६) इति कन् ॥


प्रक्रिया

धातुः -


उरस् + ङस् + सूत्र + सु - षष्ठी 2.2.8
उरस् + सूत्र - सुपो धातुप्रातिपदिकयोः 2.4.71
उर + रु सूत्र - ससजुषो रुः 8.2.66
उर + र् सूत्र - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उरःसूत्र - खरवसानयोर्विसर्जनीयः 8.3.15
उरःसूत्र + सु + कन् - इवे प्रतिकृतौ 5.3.96
उरःसूत्र + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
उरःसूत्रक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
उरःसूत्रक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
उरःसूत्रक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
उरःसूत्रका - अकः सवर्णे दीर्घः 6.1.101
उरःसूत्रिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
उरःसूत्रिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उरःसूत्रिका + स् - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
उरःसूत्रिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68