अमरकोशः


श्लोकः

स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः । सृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुका: ॥ ५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शिवा शिवा स्त्रीलिङ्गः शिवः शिवा वा देवताऽस्त्यस्याः । अच् तद्धितः आकारान्तः
2 भूरिमाय भूरिमायः पुंलिङ्गः भूरयो माया यस्य ॥ बहुव्रीहिः समासः अकारान्तः
3 गोमायु गोमायुः पुंलिङ्गः गां विकृतां वाचं मिनोति । उण् उणादिः उकारान्तः
4 मृगधूर्तक मृगधूर्तकः पुंलिङ्गः मृगेषु धूर्त इव कन् तद्धितः अकारान्तः
5 सृगाल सृगालः पुंलिङ्गः सृजति मायाम् । कालन् बाहुलकात् अकारान्तः
6 वञ्चक वञ्चकः पुंलिङ्गः वश्यते । ण्वुल् कृत् अकारान्तः
7 क्रोष्टु क्रोष्टुः पुंलिङ्गः क्रोशति । तुन् उणादिः उकारान्तः
8 फेरु फेरुः पुंलिङ्गः 'फे' इत्यव्यक्तं रौति । डु कृत् उकारान्तः
9 फेरव फेरवः पुंलिङ्गः 'फे' इत्यव्यक्तो रवोऽस्य । बहुव्रीहिः समासः अकारान्तः
10 जम्बुक जम्बुकः पुंलिङ्गः जमति । कु उणादिः अकारान्तः