शिवा

सुधाव्याख्या

स्त्रियामिति । शिवः शिवा वा देवताऽस्त्यस्याः । अर्शआद्यच् (५.२.१२७) । शकुनावेदकत्वात् । ‘शिवः किलः शिवा क्रोष्टा भवेदामलकी शिवा' इति शाश्वताच्छृगालेऽपि स्त्रीलिङ्गः । चतुष्पदां द्विलिङ्गता वक्ष्यते । तदपवादोऽयम् ॥