सृगालः

सुधाव्याख्या

सृजति मायाम् । ‘सृज विसर्गे (तु० प० अ०) । बाहुलकात् कालन् । न्यङ्क्वादिः (७.३.५३) । असृग् आलाति वा । कः (३.२.३) । पृषोदरादिः (६.३.१०९) ॥ ‘तालव्या अपि दन्त्याश्च शम्बशम्बर शूकराः । रशनापि च जिह्वायां शृगालः कलशोऽपि च' इति शभेदः । शृङ्गं न लाति । पूर्ववत् । ‘शृगालो वञ्चके दैत्ये शृगालं डमरे विदुः' विश्वः ॥