जम्बुकः

सुधाव्याख्या

जमति । ‘जमु अदने' (भ्वा० प० से०) । मृगय्वादिः (उ० १.३७) ।-मितवादित्वात् (वा० ३.२.१८०) डुः, वुक च- इति मुकुटश्चिन्त्यः । टिलोपप्रसङ्गात्। वुकोऽप्रसङ्गाच्च ॥ उलूकादित्वात् (उ० ४.४१) जम्बूकश्च । ‘खरोष्ट्रकपिजम्बूकवायसाजम्बरो यमः' इति वाचस्पतिः ॥