अमरकोशः


श्लोकः

नीडोद्भवा गरुत्मन्तः पित्सन्तो नभसङ्गमाः । तेषां विशेषा हारीतो मद्गुः कारण्डव: प्लवः ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नीडोद्भव नीडोद्भवः पुंलिङ्गः नीडे उद्भवो येषाम् ॥ बहुव्रीहिः समासः अकारान्तः
2 गरुत्मत् गरुत्मान् पुंलिङ्गः गरुतः पक्षाः सन्त्यस्य । मतुप् तद्धितः तकारान्तः
3 पित्सत् पित्सत् पुंलिङ्गः पतितुमिच्छवः । शतृ कृत् तकारान्तः
4 नभसङ्गम नभसङ्गमः पुंलिङ्गः नभसं गच्छति । खच् कृत् अकारान्तः
5 हारीत हारीतः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः
6 मद्गु मद्गुः पुंलिङ्गः मज्जति । उणादिः उकारान्तः
7 कारण्डव कारण्डवः पुंलिङ्गः कारण्डं वाति । उणादिः अकारान्तः
8 प्लव प्लवः पुंलिङ्गः प्लवते । अच् कृत् अकारान्तः