कारण्डवः

सुधाव्याख्या

रमणम् । ‘ञमताड्डुः’ (उ० १.११४) इति रमेर्डः । ईषद्रण्डः । ‘ईषदर्थे च’ (६.३.१०५) इति कोः का । कारण्डं वाति । ‘आतोऽनुप-’ (३.२.३) इति कः ॥


प्रक्रिया

धातुः -


रमुँ क्रीडायाम्
रम् - उपदेशेऽजनुनासिक इत् 1.3.2
ईषत् + रम् + ड - ञमन्ताड्डः (१.११४) । उणादिसूत्रम् ।
ईषत् + रंड - नश्चापदान्तस्य झलि 8.3.24
ईषत् + रण्ड - अनुस्वारस्य ययि परसवर्णः 8.4.58
का + रण्ड - ईषदर्थे 6.3.105
वा गतिगन्धनयोः
कारण्ड + अम् + वा + क - आतोऽनुपसर्गे कः 3.2.3, उपपदमतिङ् 2.2.19
कारण्ड + वा + क - सुपो धातुप्रातिपदिकयोः 2.4.71
कारण्ड + वा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कारण्ड + व् + अ - आतो लोप इटि च 6.4.64
कारण्डव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कारण्डव + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कारण्डव + रु - ससजुषो रुः 8.2.66
कारण्डव + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कारण्डवः - खरवसानयोर्विसर्जनीयः 8.3.15