हारीतः

सुधाव्याख्या

तेषामिति । एते पक्षिणां भेदाः । ‘हारिः पथिकसंतानद्यूतादिभङ्गयोः स्त्रियाम्’ (इति मेदिनी) । हारिमितईतो वा । हारोऽस्त्यस्मिन् । इनिः (५.२.११५) । हारि मनोहरम् इतं गमनमस्य । यद्वा हारयति । क्विप् (३.२.१७८) । एति स्म । ‘ई गतौ’ (अ० प० अ०) ‘गत्यर्था-’ (३.४.७२) इति क्तः । हा चासावीतश्च । ‘हरीतो विहगान्तरे । मुनौ छद्मनि’ इति हेमचन्द्रः । (‘हरीयाल’ इति ख्यातः) ॥