गरुत्मान्

सुधाव्याख्या

गरुतः पक्षाः सन्त्यस्य । मतुप् (५.२.९४) । ‘झयः’ (८.२.१०) इति वत्वं तु न । यवादित्वात् (८.२.९) ‘तसौ मत्वर्थे’ (१.४.१९) इति भत्वम् ॥