अमरकोशः


श्लोकः

भृङ्गारी चीरुका चीरी झिल्लिका च समा इमा: । समौ पतङ्गशलभौ खद्योतो ज्योतिरिङ्गणः ॥ २८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भृङ्गारी भृङ्गारी स्त्रीलिङ्गः भृङ्गं भृङ्गरूपम् आ राति । कृत् ईकारान्तः
2 चीरुका चीरुका स्त्रीलिङ्गः ‘ची’ इति रौति । कक् बाहुलकात् आकारान्तः
3 चीरी चीरी स्त्रीलिङ्गः चिनोति । क्रन् उणादिः ईकारान्तः
4 झिल्लिका झिल्लिका स्त्रीलिङ्गः चिल्लति । अच् आकारान्तः
5 पतङ्ग पतङ्गः पुंलिङ्गः पतति । अङ्गच् उणादिः अकारान्तः
6 शलभ शलभः पुंलिङ्गः शलति । अभच् उणादिः अकारान्तः
7 खद्योत खद्योत पुंलिङ्गः खे द्योतते । अच् कृत् अकारान्तः
8 ज्योतिरिङ्गण ज्योतिरिङ्गणः पुंलिङ्गः ज्योतिर्नक्षत्रम् । तद्वदिङ्गति । युच् कृत् अकारान्तः