चीरी

सुधाव्याख्या

चिनोति । ‘चिञ् चयने' (स्वा० उ० अ०) । ‘शुसिचिमीनां दीर्घश्च’ (उ० २.२५) इति क्रन् । चीरी झिल्ल्यां, नपुंसकम् । गोस्तने वस्त्रभेदे च रेखालेखन भेदयोः’ (इति मेदिनी) ॥