झिल्लिका

सुधाव्याख्या

चिल्लति । ‘चिल्ल शैथिल्ये’ (भ्वा० प० से०) । अच् (३.१.१३४) पृषोदरादित्वाच्चस्य झः । गौरादिः (४.१.४१) । स्वार्थे कन् (५.३.७५) । झिल्ली चीर्यातपरुचोर्वमुद्वर्तनांशके’ (इति मदिनी) ॥


प्रक्रिया

धातुः -


चिल्लँ शैथिल्ये भावकरणे च
चिल्ल् - उपदेशेऽजनुनासिक इत् 1.3.2
चिल्ल् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
चिल्ल् + अ - हलन्त्यम् 1.3.3
झिल्ल - पृषोदरादीनि यथोपदिष्टम् 6.3.109
झिल्ल + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
झिल्ल + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
झिल्ल् + ई - यस्येति च 6.4.148
झिल्ली + सु + कन् - संज्ञायां कन् 5.3.75
झिल्ली + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
झिल्ली + क - हलन्त्यम् 1.3.3
झिल्लिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
झिल्लिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
झिल्लिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
झिल्लिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
झिल्लिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68