भृङ्गारी

सुधाव्याख्या

भृङ्गेति । भृङ्गं भृङ्गरूपम् आ राति । ‘रा दाने' (अ० प० अ०) । मूलविभुजादिः (वा० ३.२.५) । गौरादिः (४.१.४१) । यद्वा बिभर्ति । ‘शृङ्गारभृङ्गारौ’ (उ० ३.१३६) इति साधुः । यद्वा रूपेण भृङ्गमृच्छति । ‘ऋ गतौ’ (भ्वा० प० अ०) । अण् (३.१.२) । ‘भृङ्गारी झिल्लिकायां च कनकालौ पुनः पुमान् (इति मेदिनी) ॥


प्रक्रिया

धातुः -


रा दाने
भृङ्ग + अम् + आङ् + रा + क - कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (3.2.5) । वार्तिकम् ।
भृङ + आङ् + रा + क - सुपो धातुप्रातिपदिकयोः 2.4.71
भृङ + आ + रा + क - हलन्त्यम् 1.3.3
भृङ + आ + रा + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भृङ्ग + आ + र् + अ - आतो लोप इटि च 6.4.64
भृङ्गार - अकः सवर्णे दीर्घः 6.1.101
भृङ्गार + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
भृङ्गार + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
भृङ्गार् + ई - यस्येति च 6.4.148
भृङ्गारी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भृङ्गारी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भृङ्गारी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68