ज्योतिरिङ्गणः

सुधाव्याख्या

ज्योतिर्नक्षत्रम् । तद्वदिङ्गति । ‘इगि गतौ’ (भ्वा० प० से०) । ‘चलनशब्दार्थात्-’ (३.२.१४८) इति युच् ॥


प्रक्रिया

धातुः -


इगिँ गतौ
इग् - उपदेशेऽजनुनासिक इत् 1.3.2
इन् + ग् - इदितो नुम् धातोः 7.1.58
इंग् - नश्चापदान्तस्य झलि 8.3.24
इङ्ग् - अनुस्वारस्य ययि परसवर्णः 8.4.58
ज्योतिस् + सु + इङ्ग् + युच् - चलनशब्दार्थादकर्मकाद्युच् 3.2.148, उपपदमतिङ् 2.2.19
ज्योतिस् + इङ्ग् + युच् - सुपो धातुप्रातिपदिकयोः 2.4.71
ज्योतिस् + इङ्ग् + यु - हलन्त्यम् 1.3.3
ज्योतिस् + इङ्ग् + अन - युवोरनाकौ 7.1.1
ज्योतिरु + इङ्गन - ससजुषो रुः 8.2.66
ज्योतिर् + इङ्गन - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ज्योतिरिङ्गण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
ज्योतिरिङ्गण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ज्योतिरिङ्गण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ज्योतिरिङ्गण + रु - ससजुषो रुः 8.2.66
ज्योतिरिङ्गण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ज्योतिरिङ्गणः - खरवसानयोर्विसर्जनीयः 8.3.15